About Us

Print

संस्कृतशि क्षाविभागस्य संक्षिप्तपरिचयः 

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।

पूर्वापरौ तोयनिधीव ग्राह्यः स्थितः पृथिव्या इव मानदण्डः॥

पञ्चबदरीकेदारप्रयागसमन्वितः गंगोत्तरीयमुनोत्तरीनन्दासुनन्दाजागेश्वरबागेश्वरदिव्यधामयुतः गंगायमुनासरस्वतीसरयूतमसादिनदीसङ्ममावच्छिन्नः प्रदेशः हिमाचलशिखराणामुतुङ्गशिखरसमन्वितः भगवतिसुरसरिताप्लावितसमतलप्रदेशः उत्तराखण्डः देवभूमिनाम्ना लोकविश्रुतः।  अत्र हि संस्कृतं द्वितीया राजभाषापदमलङ्करोति।  एतादृशे दिव्यप्रदेशे उत्तराखण्डे  संस्कृतविभागस्य परिचयः संक्षेपेण अत्र वर्ण्यते-

संस्कृतशिक्षामन्त्रालयः

उत्तराखण्डप्रदेशः  भारतस्य तेषु विशिष्टप्रदेशेषु वर्तते यत्र स्वतन्त्ररूपेण एकः पृथक् संस्कृतमन्त्रालयः  वर्तते। उत्तराखण्डसर्वकारद्वारा राज्ये संस्कृतभाषायाः समुचितविकासाय संस्कृत अकादमी, संस्कृतविश्वविद्यालयः, संस्कृतनिदेशालयादीनां क्रमेण स्थापना कृता। ताषां समेषामपि संस्कृतसंस्थानां सम्यक् संचालनाय पृथक् मन्त्रालयः भवतु इति विचिन्त्य राज्ये स्वतन्त्ररूपेण मई 2012 तमे वर्षे स्वतन्त्रससंस्कृतशिक्षामन्त्रालयस्य स्थापना कृता। स्वतन्त्ररूपेण निर्मितमन्त्रालयाधीनं संस्कृतभाषासंवर्धनाय संरक्षणाय विविधकार्याणि क्रीयमाणानि वर्तते।

उत्तराखण्डशासनस्तरे संस्कृतशिक्षाविभागः

मई मासस्य 2012 तमे वर्षे संस्कृतमन्त्रालयनिर्माणेन सह एव शासनस्तरे संस्कृतविभागस्य स्थापना संजाता। तस्मिन् विभागे प्रमुखत्वेन सचिवः, अपरसचिवः, संयुक्तसचिवः, उपसचिवः, अनुसचिवः शासकीयाधिकारिणां पदानि विद्यन्ते येषु भारतीयप्रशासनिकसेवायाः अधिकारिणः, राज्यप्रशासनिकसेवायाः सचिवालयसेवायाः अधिकारिण विहितप्रक्रियानुसारेण समये समये नियुक्ताः भवन्ति।

उत्तराखण्डसचिवालये संस्कृतशिक्षानुभागः

मन्त्रालयस्थापनया सह एव सचिवालय एव संस्कृतशिक्षाविभागस्य एकः पृथक् अनुभागः वर्तते। यत्र अनुभागाधिकारी तथा सहायकानुभागाधिकारी तथा अन्य सहायककर्मचारिणः पदासीनाः वर्तन्ते।

संस्कृतशिक्षानिदेशालयः

2008 तमे ख्रीष्टाब्दे जूनमासस्य 15 तारिकायाम् उत्तराखण्डप्रदेशे प्रदेशस्तरीयसंस्कृतकार्यसाधनाय प्रदेशस्य संस्कृतशिक्षायाः समुचितविकासाय संस्कृतसंवर्धनपरककार्याणां क्रियान्वयनाय संस्कृतशिक्षानिदेशालयः स्थापितः वर्तते। संस्कृतशिक्षानिदेशालयः राज्ये संस्कृतशिक्षायाः प्रसाराय नीतिनिर्धारणाय कार्यनिर्वहणाय निर्देशनं पर्यवेक्षणम् अनुश्रवणं करोति। अस्मिन् संस्कृतशिक्षानिदेशालये निदेशकः प्रमुखत्वं भजति। तदतिरिच्च संयुक्तनिदेशकः, उपनिदेशकः, प्रशासनिकाधिकारी, वित्ताधिकारी सहितं अन्यानि विविधसहायककर्मकराणां पदानि वर्तन्ते। अत्र प्रशासनिकानुभागःअकादमिकानुभागः, उच्चशिक्षानुभागः माध्यमिकशिक्षानुभागः, प्रारम्भिकशिक्षानुभागः, वित्तलेखानुभागः, बाह्यसहायतापरियोजननानुभागः, राज्यपरियोजनानुभागः प्रमुखतया वर्तन्ते। निदेशकस्य नियन्त्रणाधीनं  सर्वे विभागाः स्वाधीनविषयाणां संवर्धनाय कार्यं कुर्वन्ति।

उत्तराखण्डसंस्कृतविश्वविद्यालयः

2005तमे वर्षे अप्रैलमासस्य द्वाविंशतिदिनाङ्के उत्तराखण्डस्य हरिद्वारजनपदे भगवत्याः गंगादेव्याः पावने तटे उत्तराखण्डसंस्कृतविश्वविद्यालयनाम्ना एकः संस्कृतविश्वविद्यालयः स्थापितः। संस्कृतशिक्षायाः प्रसाराणाय वेदवेदाङ्गादीनां शास्त्राणां संरक्षणाय उत्तराखण्डप्रदेशस्य युवयुवतिभ्यः संस्कृतशिक्षामाध्यमेन कौशलाभिवर्धनाय निरतं कार्यान्वितः विश्वविद्यालयः हरिद्वार-देहलीराजमार्गे रानीपुरझालेति नामके स्थाने हरिद्वारजनपदे अवस्थितः वर्तते। उत्तराखण्डसंस्कृतविश्वविद्यालयः  प्राच्यविद्यानां शास्त्राणां संरक्षणाय संवर्धनाय   कार्यनिरतः वर्तते। उत्तराखण्डराज्य अवस्थिताः चतुश्चत्वारिंशत्महाविद्यालयाः विश्वविद्यालयसम्बद्धा  वर्तन्ते तथा हरिद्वारे विश्वविद्यालयस्य मुख्यः शैक्षणिकपरिसरः तथा प्रशासनिककार्यालयः अवस्थितः वर्तते। विश्वविद्यालये प्राचीनविषयसहितं आधुनिकवविषयाणामपि अध्ययनमध्यापनं भवति।  

 

उत्तराखण्डसंस्कृत अकादमी

 

2002 तमे ख्रीस्ताब्दे दिसम्बरमासस्य 12 तारिकायाम् उत्तराखण्डस्य हरिद्वारजनपदे संस्कृतभाषायाः प्रसाराय उत्तराखण्डसंस्कृत अकादमी नाम्ना एका  संस्कृतसंवर्धनाय संस्था स्थापिता। संस्कृतभाषाविकासाय विविधोपायेषु निरता वर्तते। 

 

उत्तराखण्डसंस्कृतशिक्षापरिषद्

 2014 तमे वर्षे नवम्बरमासस्य 19 दिनाङ्के प्राथमिकपूर्वमाध्यमिकोत्तरमाध्यमिककक्षाणां संचालनाय तेषां पाठ्यक्रमपाठ्यपुस्तकादीनां प्रकाशनाय परीक्षासंचालनायप्रमाणीकरणाय अथ प्रारम्भिकमाध्यमिकशिक्षायाः मापनाय मुल्यांकनाय शिक्षणायप्रशिक्षणाय उत्तराखण्डसंस्कृतशिक्षापरिषदः स्थापना जाता। अस्य परिषदः सामान्या उद्देश्याः कार्याणि अधोलिखितानि सन्ति-

जनपदसहायकनिदेशककार्यालयाः

राज्यस्तरे संस्कृतशिक्षानिदेशालयस्य सहयोगाय जनपदस्तरीयसंस्कृतशिक्षाव्यवस्थासंचालनाय तदैव 2008 तमे ख्रीष्टाब्दौ जूनमासस्य 28 तारिकायाम् उत्तराखण्डप्रदेशे प्रत्येकस्मिन् जनपदे संस्कृतसहायकनिदेशकस्य कार्यालयाः संस्थापिताः। सहायकनिदेशालयस्य कार्यं संस्कृतशिक्षायाः क्रियान्वयनाय अनुश्रवणं निरीक्षणं पर्यवेक्षणं निर्देशनं वर्तते। तत्र सहायकनिदेशकः (संस्कृतशिक्षा) तथा तस्य कार्यालयसहायकस्य कार्यालयः वर्तते।  

संस्कृतमहाविद्यालयाः

उत्तराखण्डे संस्कृतशिक्षाप्रदानस्य मूलभूतकार्यं कुर्वन्ति संस्कृतविद्यालयमहाविद्यालयाः। एतेषु संस्कृतविद्यालयमहाविद्यालयेषु त्रिविधाः वर्तन्ते। प्रथमं तावत् तादृशाः यत्र आचार्यपर्यन्तं शिक्षाप्राप्यते। द्वितीयं तादृशाः यत्र उत्तरमध्यमापर्यन्तं शिक्षाप्राप्यते। तृतीयाश्च प्राथमिकपूर्वमाध्यमिकाश्च। तेषां सामान्यवर्णनम् अधोनिर्दिष्टं वर्तते।

संस्कृतनगरी हरिद्वारम्

उत्तराखण्डशासनद्वारा हरिद्वारम् ऋषिकेशः नगरद्वयं संस्कृतनगररूपेण उद्धोषितः वर्तते। तत्र संस्कृतस्य अनेके विद्यालयमहाविद्यायलयाः संस्कृतभाषिणः जनाः निवसन्ति अतः तेषामत्र घोषणा वर्तते।

संस्कृतनगरी ऋषिकेशः

उत्तराखण्डशासनद्वारा ऋषिकेशः संस्कृतनगररूपेण उद्धोषितः वर्तते।  तत्र संस्कृतस्य अनेके विद्यालयमहाविद्यायलयाः संस्कृतभाषिणः जनाः निवसन्ति अतः तेषामत्र घोषणा वर्तते।

संस्कृतग्रामः भन्तोला

उत्तराखण्डशासनद्वारा कूर्माञ्चलस्थे बागेश्वरजनपदे संस्कृतग्रामरूपेण भन्तोला इति ग्रामः संस्कृतग्रामरूपेण उद्धोषितः वर्तते।  तत्र संस्कृतस्य  महाविद्यायलयः तथा विविधवर्गीयाः संस्कृतानुरागिणः संस्कृतभाषिणः जनाः निवसन्ति।  

संस्कृतग्रामः किमोठा

उत्तराखण्डशासनद्वारा गढवालमण्डले चमोलीजनपदे संस्कृतग्रामरूपेण किमोठा इति ग्रामः संस्कृतग्रामरूपेण उद्धोषितः वर्तते।  तत्र संस्कृतस्य  महाविद्यालयः तथा विविधवर्गीयाः संस्कृतानुरागिणः संस्कृतभाषिणः जनाः निवसन्ति।  

विधानसभायां संस्कृतम्

ऋषिकेशविधानसभाद्वारा चितः विधायकः श्रीमान् प्रेमचन्द अग्रवालः उत्तराखण्डविधानसभायां संस्कृतमाध्यमेन सर्वप्रथमं सपथं गृहीत्वा कीर्तिमानं स्थापितवान्। तदनन्तरं द्वितीयविधायकरूपेण रुद्रप्रयागजनपदस्य विधायकः श्रीमान् भरतसिंहचौधरी महाभागः उत्तराखण्डे संस्कृतभाषया विधानसभायां सपथग्रहणं कृतवान्।

विधानसभायां संस्कृतोन्नयनसमितिः

विधानसभाध्यक्षः श्रीमान् प्रेमचन्द अग्रवालः महाभागः विधानसभायां विभिन्नसंसदीयसमितीनामिव संस्कृतसमितिमपि रचितवान्। तत्र विधायकत्रम् अस्याः समित्याः सदस्याः भवन्ति।

Online Classes

News and AnnouncementsStop

News and Announcements >

Hit Counter0000354086Since: 01-01-2011