संस्कृतशि क्षाविभागस्य संक्षिप्तपरिचयः 

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।

पूर्वापरौ तोयनिधीव ग्राह्यः स्थितः पृथिव्या इव मानदण्डः॥

पञ्चबदरीकेदारप्रयागसमन्वितः गंगोत्तरीयमुनोत्तरीनन्दासुनन्दाजागेश्वरबागेश्वरदिव्यधामयुतः गंगायमुनासरस्वतीसरयूतमसादिनदीसङ्ममावच्छिन्नः प्रदेशः हिमाचलशिखराणामुतुङ्गशिखरसमन्वितः भगवतिसुरसरिताप्लावितसमतलप्रदेशः उत्तराखण्डः देवभूमिनाम्ना लोकविश्रुतः।  अत्र हि संस्कृतं द्वितीया राजभाषापदमलङ्करोति। उत्तराखण्डप्रदेशः  भारतस्य तेषु विशिष्टप्रदेशेषु वर्तते यत्र स्वतन्त्ररूपेण एकः पृथक् संस्कृतमन्त्रालयः  वर्तते। शासनस्तरे संस्कृतविभागः वर्तते यत्र सचिवः, अपरसचिवः, संयुक्तसचिवः, उपसचिवः, अनुसचिवः शासकीयाधिकारिणः नियुक्ताः भवन्ति। सचिवालय एव संस्कृतशिक्षाविभागस्य एकः पृथक् अनुभागः वर्तते। प्रदेशस्तरीयसंस्कृतकार्यसाधनाय प्रदेशस्य संस्कृतशिक्षायाः समुचितविकासाय संस्कृतसंवर्धनपरककार्याणां क्रियान्वयनाय संस्कृतशिक्षानिदेशालयः स्थापितः वर्तते। संस्कृतशिक्षानिदेशालये प्रशासनिकानुभागःअकादमिकानुभागः, उच्चशिक्षानुभागः माध्यमिकशिक्षानुभागः, प्रारम्भिकशिक्षानुभागः, वित्तलेखानुभागः, बाह्यसहायतापरियोजननानुभागः, राज्यपरियोजनानुभागः प्रमुखतया वर्तन्ते। निदेशकस्य नियन्त्रणाधीनं  सर्वे विभागाः स्वाधीनविषयाणां संवर्धनाय कार्यं कुर्वन्ति। तथैव संस्कृतशिक्षायाः प्रसाराणाय वेदवेदाङ्गादीनां शास्त्राणां संरक्षणाय उत्तराखण्डप्रदेशस्य युवयुवतिभ्यः संस्कृतशिक्षामाध्यमेन कौशलाभिवर्धनाय उत्तराख्डसंस्कृतविश्वविद्यालयः हरिद्वारजनपदे अवस्थितः वर्तते। तन्निकट एव संस्कृतभाषायाः प्रसाराय उत्तराखण्डसंस्कृत अकादमी स्थापिता वर्तते।  संस्कृतशिक्षाविभागाधीना प्राथमिकपूर्वमाध्यमिकोत्तरमाध्यमिककक्षाणां संचालनाय तेषां पाठ्यक्रमपाठ्यपुस्तकादीनां प्रकाशनाय परीक्षासंचालनायप्रमाणीकरणाय अथ प्रारम्भिकमाध्यमिकशिक्षायाः मापनाय शिक्षणायप्रशिक्षणाय उत्तराखण्डसंस्कृतशिक्षापरिषद्  स्थापिता वर्तते। राज्यस्तरे संस्कृतशिक्षानिदेशालयस्य सहयोगाय जनपदस्तरीयसंस्कृतशिक्षाव्यवस्थासंचालनाय सहायकनिदेशकस्य कार्यालयः वर्तते।  राज्ये सप्तनवतिः संस्कृतविद्यालयमहाविद्यालयाः वर्तन्ते। ये संस्कृतशिक्षाप्रदानं कुर्वन्ति।   उत्तराखण्डशासनद्वारा हरिद्वारम् ऋषिकेशः नगरद्वयं संस्कृतनगररूपेण उद्धोषितः वर्तते।  तथैव ग्राम्याञ्चले संस्कृतभाषायाः  प्रसाराय कूर्माञ्चले संस्कृतग्रामः भन्तोला गढवालप्रान्ते   संस्कृतग्रामः किमोठा घोषितौ वर्तेते। उत्तराखण्डविधानसभायां विभिन्नसंसदीयसमितीनामिव संस्कृतसमितिरपि स्थापिता वर्तते। एवं प्रकारेण उत्तराखण्डे ग्राम्याञ्चलाद् विधानसभापर्यन्तं सर्वत्र संस्कृतस्य संस्थानानि स्थापितानि वर्तन्ते।

Online Classes

News and Announcements >

Hit Counter0000352783Since: 01-01-2011